|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.43. अध्यायः 043
Mahabharata - Bhishma Parva - Chapter Topics
युधिष्ठिरेण रथादवरुह्य भीष्मद्रोणाद्यभिवादनपूर्वकं तेभ्यो जयाशीर्ग्रहणम् ॥ 1 ॥ युधिष्ठिरे पुनर्भ्रातृभिः सह रथारूढे सन्नहाभेरीन्नादनम् ॥ 2 ॥

Mahabharata - Bhishma Parva - Chapter Text
वैशम्पायन उवाच। 6-43-0x(4067)(40175)
गीता सुगीता कर्तव्या किमन्यैः शास्त्रसंग्रहैः ।
या स्वयं पद्मनाभस्य सुखपद्माद्विनिःसृता ॥ 6-43-1(40176)
सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः।
सर्वतीर्थमयी गङ्गा सर्वदेवमयो मनुः ॥ 6-43-2(40177)
गीता गङ्गा च गायत्री गोविन्देति हृदि स्थिते।
चतुर्गकारसंयुक्ते पुनर्जन्म न विद्यते ॥ 6-43-3(40178)
षट्शतानि सविंशानि श्लोकानां प्राह केशवः।
अर्जुनः सप्तपञ्चाशत्सप्तषष्टिं तु सञ्जयः॥ 6-43-4(40179)
धृतराष्ट्रः श्लोकमेकं गीताया मानमुच्यते ।
भारतामृतसर्वस्वगीताया मथितस्य च।
सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् ॥ 6-43-5(40180)
सञ्जय उवाच। 6-43-6x(4068)
ततो धनंजयं दृष्ट्वा बाणगाण्डीवधारिणम् ।
पुनरेव महानादं व्यसृजन्त महारथाःक ॥ 6-43-6(40181)
पाण्डवाः सोमकाश्चैव ये चैषामनुयायिनः ।
दध्मुश्च मुदिताः शङ्खान्वीराः सागरसंभवान् ॥ 6-43-7(40182)
ततो भेर्यश्च पेश्यश्च क्रकचा गोविषाणिकाः ।
सहसैवाभ्यहन्यन्त ततः शब्दो महानभूत् ॥ 6-43-8(40183)
तथा देवाः सगन्धर्वाः पितरश्च जनाधिप ।
सिद्धचारणसङ्घाश्च समीयुस्ते दिदृक्षया ॥ 6-43-9(40184)
ऋषयश्च महाभागाः पुरस्कृत्य शतक्रतुम् ।
समीयुस्तत्र सहिता द्रुष्टुं तद्वैशसं महत् ॥ 6-43-10(40185)
` ते सेने स्तिमिते सञ्जे वीक्षमाणे परस्परम् ।
गङ्गायमुनयोर्वेगो यथैवैत्य परस्परम् ॥ 6-43-11(40186)
एवं प्रवत्ते ते सेने निःशब्दे जनसंसदि ।
चित्रे पट इवालेख्ये दर्शनीयतरे शुभे ॥' 6-43-12(40187)
ततो युधिष्ठिरो दृष्ट्वा युद्धाय समवस्थिते।
ते सेने सागरप्रख्ये मुहुः प्रज्वलिते नृप ॥ 6-43-13(40188)
विमुच्य कवचं वीरो निक्षिप्य च वरायुधम् ।
अवरुह्य रथात्क्षिप्रं पद्म्यामेव कृताञ्जलिः ॥ 6-43-14(40189)
पितामहमभिप्रेक्ष्य धर्मराजो युधिष्ठिरः ।
वाग्यतः प्रययौ धीरः प्राङ्भुखो रिपुवाहिनीम् ॥ 6-43-15(40190)
तं प्रयान्तमभिप्रेभ्य कुन्तीपुत्रो धनञ्जयः ।
अवतीर्य रथात्तूर्णं भ्रातृभिः सहितोऽन्वयात् ॥ 6-43-16(40191)
वासुदेवश्च भगवान्पृष्ठतोऽनुजगाम तम् ।
तथा मुख्याश्च राजानस्तच्चित्ता जग्मुरुत्सुकाः ॥ 6-43-17(40192)
अर्जुन उवाच। 6-43-18x(4069)
किं ते व्यवसितं राजन्यदस्मानपहाय वै।
प्रद्म्यामेव प्रयातोऽसि प्राङ्मुखो रिपुवाहिनीम् ॥ 6-43-18(40193)
भीमसेन उवाच। 6-43-19x(4070)
क्व गमिष्यसि राजेन्द्र निक्षिप्तकवचायुधः।
दंशितेष्वरिसैन्येषु भ्रातॄनुत्सृज्य पार्थिव ॥ 6-43-19(40194)
नकुल उवाच। 6-43-20x(4071)
एवं गते त्वयि ज्येष्ठे मम भ्रातरि भारत।
भीमे दुनोति हृदयं ब्रूहि गन्ता भवान्क्व नु ॥ 6-43-20(40195)
सहदेव उवाच। 6-43-21x(4072)
अस्मिन्रणसमूहे वै वर्तमाने महाभये।
उत्सृज्य क्व नु गन्तासि शत्रूनभिमुखो नृप ॥ 6-43-21(40196)
सञ्जय उवाच। 6-43-22x(4073)
एवमाभाष्यमाणोऽपि भ्रातृभिः कुरुनन्दनः।
नोवाच वाग्यतः किंचिद्गच्छत्येव युधिष्ठिरः ॥ 6-43-22(40197)
तानुवाच महाप्राज्ञो वासुदेवो महामनाः ।
अभिप्रायोऽस्य विज्ञातो मयेति प्रहसन्निव ॥ 6-43-23(40198)
एष भीष्मं तथा द्रोणं गौतमं शल्यमेव च।
अनुमान्य गुरून्सर्वान्योत्स्यते पार्थिवोऽरिभिः ॥ 6-43-24(40199)
श्रूयते हि पुराकल्पे गुरूनननुमान्य यः।
युध्यते स भवेद्व्यक्तमपध्यातो महत्तरैः ॥ 6-43-25(40200)
अनुमान्य यथाशास्त्रं यस्तु युध्येन्महत्तरैः ।
ध्रुवस्तस्य जयो युद्धे भवेदिति मतिर्मम ॥ 6-43-26(40201)
एवं ब्रुवति कृष्णेऽत्र धार्तराष्ट्रचमूं प्रति।
हाहाकारो महानासीन्निःशब्दास्त्वपरेऽभवन् ॥ 6-43-27(40202)
दृष्ट्वा युधिष्ठिरं दूराद्धार्तराष्ट्रस्य सैनिकाः ।
मिथः संकथयांचक्रुरेषो हि कुलपांसनः ॥ 6-43-29aव्यक्तं भीत इवाभ्येति राजासौ भीष्ममन्तिकम् ।
युधिष्ठिरः ससोदर्यः शरणार्थं प्रयाचकः ॥ 6-43-28(40203)
धनञ्जये कथं नाथे पाण्डवे च वृकोदरे ।
नकुले सहदेवे च भीतिरभ्येति पाण्डवम् ॥ 6-43-30(40204)
न नूनं क्षत्रियकुले जातः संप्रथिते भुवि।
यथाऽस्य हृदयं भीतमल्पसत्वस्य संयुगे ॥ 6-43-31(40205)
ततस्ते सैनिकाः सर्वे प्रशंसन्ति स्म कौरवान् ।
हृष्टाः सुमनसो भूत्वा चेलानि दुधुवुश्च ह ॥ 6-43-32(40206)
व्यनिन्दंश्च तथा सर्वे योधास्तव विशांपते।
युधिष्ठिरं ससोदर्यं सहितं केशवनेन हि ॥ 6-43-33(40207)
ततस्तत्कौरवं सैन्यं धिक्वृत्वा तु युधिष्ठिरम् ।
निःशब्दमभवत्तूर्णं पुनरेव विशांपते ॥ 6-43-34(40208)
किं नु वक्ष्याति राजाऽसौ किं भीष्मः प्रतिवक्ष्यति।
किं भीमः समरश्लाघी किं नु कृष्णार्जुनाविति ॥ 6-43-35(40209)
विवक्षितं किमस्येति संशयः सुमहानभूत् ।
उभयो सेनयो राजन्युधिष्ठिरकृते तदा ॥ 6-43-36(40210)
सोऽवगाह्य चमूं शत्रोः शरशक्तिसमाकुलाम् ।
भीष्ममेवाभ्यात्तूर्णं भ्रातृभिः परिवारितः ॥ 6-43-37(40211)
तमुवाच ततः पादौ कारभ्यां पीड्य पाण्डवः ।
भीष्मं शान्तनवं राजा युद्धाय समुपस्थितम् ॥ 6-43-38(40212)
युधिष्ठिर उवाच। 6-43-39x(4074)
आमन्त्रये त्वां दुर्धर्ष त्वया योत्स्यामहे सह।
अनजानीहि मां तात आशिषश्च प्रयोजय ॥ 6-43-39(40213)
भीष्म उवाच। 6-43-40x(4075)
यद्येवं नाभिगच्छेथा युधि मां पृथिवीपते।
शपेयं त्वां महाराज परीभावाय भारत ॥ 6-43-40(40214)
प्रीतोऽहं पुत्र युध्यस्व जयमाप्नुहि पाण्डव ।
यत्तेऽभिलषितं चान्यत्तदवाप्नुहि संयुगे ॥ 6-43-41(40215)
व्रियतां च वरः पार्थ किमस्मत्तोऽभिकाङ्क्षसि ।
एवं गते महाराज न तवास्ति पराजयः ॥ 6-43-42(40216)
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः ॥ 6-43-43(40217)
अतस्त्वां क्लीबवद्वाक्यं ब्रवीमि कुरुनन्दन ।
भृतोऽस्त्म्यर्थेन कौरव्य युद्धादन्यत्किमिच्छसि ॥ 6-43-44(40218)
युधिष्ठिर उवाच। 6-43-45x(4076)
मन्त्रयस्व महाबाहो हितैषी मम नित्यशः।
युध्यस्व कौरवस्यार्थे ममैष सततं वरः ॥ 6-43-45(40219)
भीष्म उवाच। 6-43-46x(4077)
राजन्किमत्र साह्यं ते करोमि कुरुनन्दन।
कामं योत्स्ये परस्यार्थे ब्रूहि यत्ते विवक्षितम् ॥ 6-43-46(40220)
युधिष्ठिर उवाच। 6-43-47x(4078)
कथं जयेयं संग्रामे भवन्तमपराजितम्।
एतन्मे मन्त्रय हितं यदि श्रेयः प्रपश्यसि ॥ 6-43-47(40221)
भीष्म उवाच। 6-43-48x(4079)
नैनं पश्यामि कौन्तेय यो मां युध्यन्तमाहवे।
विजयेत पुमान्कश्तित्साक्षादपि शतक्रतुः ॥ 6-43-48(40222)
युधिष्ठिर उवाच। 6-43-49x(4080)
हन्त पृच्छामि तस्मात्त्वां पितामह नमोस्तु ते।
वधोपायं ब्रवीहि त्वमात्मनः समरे परैः ॥ 6-43-49(40223)
भीष्म उवाच। 6-43-50x(4081)
न स्म तं तात पश्यामि समरे यो जयेत माम्।
न तावन्मृत्युकालोऽपि पुनरागमनं कुरु ॥ 6-43-50(40224)
सञ्जय उवाच। 6-43-51x(4082)
ततो युधिष्ठिरो वाक्यं भीष्मस्य कुरुनन्दन।
शिरसा प्रतिजग्राह भूयस्तमभिवाद्य च ॥ 6-43-51(40225)
प्रायात्पुनर्महाबाहुराचार्यस्य रथं प्रति।
पश्यतां सर्वसैन्यानां मध्येन भ्रातृभिः सह ॥ 6-43-52(40226)
स द्रोणमभिवाद्याथ कृत्वं चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 6-43-53(40227)
आमन्त्रये त्वां भगवन्योत्स्ये विगितकल्मषः ।
कथं जये रिपून्सर्वाननुज्ञातस्त्वया द्विज ॥ 6-43-54(40228)
द्रोण उवाच। 6-43-55x(4083)
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज परीभावाय सर्वशः ॥ 6-43-55(40229)
तद्युधिष्ठिर तुष्टोऽस्मि पूजितश्च त्वयाऽनघ।
अनुजानामि युध्यस्व विजयं समवाप्नुहि ॥ 6-43-56(40230)
करवाणि च ते कामं ब्रूहि त्वमभिकाङ्क्षितम् ।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 6-43-57(40231)
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैःक ॥ 6-43-58(40232)
ब्रवीम्येतत्क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि।
योत्स्येऽहं कौरवस्यार्थे तवाशास्यो जयो मया ॥ 6-43-59(40233)
युधिष्ठिर उवाच। 6-43-60x(4084)
जयमाशास्स्व मे ब्रह्मन्मन्त्रयस्व च मद्धितम्।
युध्यस्व कौरवस्यार्थे वर एष वृतो मया ॥ 6-43-60(40234)
द्रोण उवाच। 6-43-61x(4085)
ध्रुवस्ते विजयो राजन्यस्य मन्त्री हरिस्तव ।
अहं त्वामभिजानामि रणे शत्रून्विजेष्यसि ॥ 6-43-61(40235)
यतो धर्मस्ततः कृष्णो यतः कृष्णस्ततो जयः।
युध्यस्व गच्छ कौन्तेय पृच्छ मां किं ब्रवीमि ते ॥ 6-43-62(40236)
युधिष्ठिर उवाच। 6-43-63x(4086)
पृच्छामि त्वां द्विजश्रेष्ठ श्रृणु यन्मेऽभिकाङ्क्षितम्।
कथं जयेयं संग्रामे भवन्तमपराजितम् ॥ 6-43-63(40237)
द्रोण उवाच। 6-43-64x(4087)
न तेऽस्ति विजयस्तावद्यावद्युद्ध्याम्यहं रणे।
ममाशु निधने राजन्यतस्व सह सदरैः ॥ 6-43-64(40238)
युधिष्ठिर उवाच। 6-43-65x(4088)
हन्त तस्मान्महाबाहो वधोपायं वदात्मनः।
आचार्य प्रणिपत्यैष पृच्छामि त्वां नमोऽस्तु ते ॥ 6-43-65(40239)
द्रोण उवाच। 6-43-66x(4089)
न शत्रुं तात पश्यामि यो मां हन्याद्रथे स्थितम्।
युध्यमानं सुसंरब्धं शरवर्षौघवर्षिणम् ॥ 6-43-66(40240)
ऋते प्रायगतं रजन्न्यस्तशस्त्रमचेतनम् ।
हन्यान्मां युधि योधानां सत्यमेतद्ब्रवीमि ते । 6-43-67(40241)
शस्त्रं चाहं रणे जह्यां श्रुत्वा तु महदप्रियम्।
श्रद्धेपवाक्यात्पुरुषादेतत्सत्यं ब्रवीति ते ॥ 6-43-68(40242)
सञ्जय उवाच। 6-43-69x(4090)
एतच्छ्रुत्वा महाराज भारद्वाजस्य धीमतः।
अनुमान्य तमाचार्यं प्रायाच्छारद्वतं प्रति ॥ 6-43-69(40243)
सोऽभिवाद्य कृपं राजा कृत्वा चापि प्रदक्षिणम् ।
उवाच दुर्धर्षतमं वाक्यं वाक्यविदां वरः ॥ 6-43-70(40244)
अनुमानये त्वां योत्स्येऽहं गुरो विगतकल्मषः ।
जयेयं च रिपून्सर्वाननुज्ञातस्त्वयाऽनघ ॥ 6-43-71(40245)
कृप उवाच। 6-43-72x(4091)
यदि मां नाभिगच्छेथा युद्धाय कृतनिश्चयः।
शपेयं त्वां महाराज परीभावाय सर्वशः ॥ 6-43-72(40246)
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः । 6-43-73(40247)
तेषामर्थे महाराज योद्धव्यमिति मे मतिः ।
अतस्त्वां क्लीबवद्ब्रूयांयुद्धादन्यत्किमिच्छसि ॥ 6-43-74(40248)
युधिष्ठिर उवाच। 6-43-75x(4092)
हन्त पृच्छामि ते तस्मादाचार्य श्रृणु मे वचः।
इत्युक्त्वा व्यथितो राजा नोवाच गतचेतनः ॥ 6-43-75(40249)
सञ्जय उवाच 6-43-76x(4093)
तं गौतमः प्रत्युवाच विज्ञायास्य विवक्षितम्।
अवध्योऽहं महीपाल यद्ध्यस्व जयमाप्नुहि ॥ 6-43-76(40250)
प्रीतस्तेऽभिगमेनाहं जयं तव नराधिप ।
आशासिष्ये सदोत्थाय सत्यमेतद्ब्रवीमि ते ॥ 6-43-77(40251)
एतच्छ्रुत्वा महाराज गौतमस्य विशांपते।
अनुमान्य कृपं राजा प्रययौ येन मद्रराट् ॥ 6-43-78(40252)
स शल्यमभिवाद्याथ कृत्वा चाभिप्रदक्षिणम् ।
उवाच राजा दुर्धर्षमात्मनिःश्रेयसं वचः ॥ 6-43-79(40253)
अनुमानये त्वां दुर्धर्ष योत्स्ये विगतकल्मषः ।
जयेयं नु परान्राजन्ननुज्ञातस्त्वया रिपून् ॥ 6-43-80(40254)
शल्य उवाच। 6-43-81x(4094)
यदि मां नाधिगच्छेथा युद्धाय कृतनिश्चयः ।
शपेयं त्वां महाराज परीभावाय वै रणे ॥ 6-43-81(40255)
तुष्टोऽस्मि पूजितश्चास्मि यत्काङ्क्षसि तदस्तु ते ।
अनुजानामि चैव त्वां युध्यस्व जयमाप्नुहि ॥ 6-43-82(40256)
ब्रूहि चैष परं वीर केनार्थः किं ददामि ते।
एवं गते महाराज युद्धादन्यत्किमिच्छसि ॥ 6-43-83(40257)
अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित्।
इति सत्यं महाराज बद्धोस्म्यर्थेन कौरवैः ॥ 6-43-84(40258)
करिष्यामि हि ते कामं भागिनेय यथेप्सितम्।
ब्रवीम्यतः क्लीबवत्त्वां युद्धादन्यत्किमिच्छसि ॥ 6-43-85(40259)
युधिष्ठिर उवाच। 6-43-86x(4095)
मन्त्रयस्व महाराज नित्यं मद्धितमुत्तमम्।
कामं युद्ध्य परस्यार्थे वरमेतं वृणोम्यहम् ॥ 6-43-86(40260)
शल्य उवाच। 6-43-87x(4096)
किमत्र ब्रूहि साह्यं ते करोमि नृपसत्तम।
कामं योत्स्ये परस्यार्थे बद्धोऽस्म्यर्थेन कौरवैः ॥ 6-43-87(40261)
युधिष्ठिर उवाच। 6-43-88x(4097)
स एव मे वरः शल्य उद्योगे यस्त्वया कृतः।
सूतपुत्रस्य संग्रामे कार्यस्तेजोवधस्त्वया ॥ 6-43-88(40262)
शल्य उवाच। 6-43-89x(4098)
संपत्स्यत्येष ते कामः कुन्तीपुत्र यथेप्सितम् ।
गच्छ युध्यस्व विस्रब्धः प्रतिजाने वचस्तव ॥ 6-43-89(40263)
सञ्जय उवाच। 6-43-90x(4099)
अनुमान्याथ कौन्तेयो मातुलं मद्रकेश्वरम् ।
निर्जगाम महासैन्याद्भ्रतृभिः परिवारितः ॥ 6-43-90(40264)
वासुदेवस्तु राधेयमाहवेऽभिजगाम वै।
तत एनमुवाचेदं पाण्डवार्थे गदाग्रजः ॥ 6-43-91(40265)
श्रुतं मे कर्ण भीष्मस्य द्वोषात्किल न योत्स्यसे।
अस्मान्वरय राधेय यावद्भीष्मो न हन्यते ॥ 6-43-92(40266)
हते तु भीष्मे राधेय पुनरेष्यसि संयुगम् ।
धार्तराष्ट्रस्य साहाय्यं यदि पश्यसि चेत्समम् ॥ 6-43-93(40267)
कर्ण उवाच। 6-43-94x(4100)
न विप्रियं करिष्यामि धार्तराष्ट्रस्य केशव ।
त्यक्तप्राणं हि मां विद्धि दुर्योधनहितैषिणम् ॥ 6-43-94(40268)
सञ्जय उवाच। 6-43-95x(4101)
तच्छ्रुत्वा वचनं कृष्णः संन्यवर्तत भारत ।
युधिष्ठिरपुरोगैश्च पाण्डवैः सह संगतः ॥ 6-43-95(40269)
अथ सैन्यस्य मध्ये तु प्राक्रोशत्पाण्डवाग्रजः ।
योऽस्मान्वृणोति तमहं वरये साह्यकारणात् ॥ 6-43-96(40270)
अथ तान्समभिप्रेक्ष्य युयुत्सुरिदमब्रवीत् ।
प्रीतात्मा धर्मराजानं कुन्तीपुत्रं युधिष्ठिरम् ॥ 6-43-97(40271)
अहं योत्स्यामि भवतः संयुगे धृतराष्ट्रजान् ।
युष्मदर्थं महाराज यदि मां वृणुषेऽनघ ॥ 6-43-98(40272)
युधिष्ठिर उवाच। 6-43-99x(4102)
एह्येहि सर्वे योत्स्यामस्तव भ्रातॄनपण्डितान्।
युयुत्सो वासुदेवश्च वयं च ब्रूम सर्वशः ॥ 6-43-99(40273)
वृणोमि त्वां महाबाहो युध्यस्व मम कारणात्।
त्वयि पिण्डश्च तन्तुश्च धृतराष्ट्रस्य दृश्यते ॥ 6-43-100(40274)
भजस्वास्मान्राजपुत्र भजमानान्महाद्युते ।
न भविष्यति दुर्बुद्धिर्धार्तराष्ट्रोऽत्यमर्षणः ॥ 6-43-101(40275)
सञ्जय उवाच। 6-43-102x(4103)
ततो युयुत्सुः कौरव्यान्परित्यज्य सुतांस्तव।
जगाम पाण्डुपुत्राणां सेनां विश्राव्य दुन्दुभिं ॥ 6-43-102(40276)
ततो युधिष्ठिरो राजा संप्रहृष्टःक सहानुजः ।
जग्राह कवचं भूयो दीप्तिमत्कनकोञ्ज्वलम् ॥ 6-43-103(40277)
प्रत्यपद्यन्त ते सर्वे स्वरथान्पुरुषर्षभाः ।
ततो व्यूहं यथापूर्वं प्रत्यव्यूहन्त ते पुनः ॥ 6-43-104(40278)
अवादयन्दुन्दुभींश्च शतशश्चैव पुष्करान् ।
सिंहनादांश्च विविधान्विनेदुः पुरुषर्षभाः ॥ 6-43-105(40279)
रथस्थान्पुरुषव्याघ्रान्पाण्डवान्प्रेक्ष्य पार्थिवाः ।
धृष्टद्युम्नादयः सर्वे पुनर्जहृषिरे तदा ॥ 6-43-106(40280)
गौरवं पाण्डुपुत्राणां मान्यान्मानयतां च तान्।
दृष्ट्वा महीक्षितस्तत्र पूजयांचक्रिरे भृशम् ॥ 6-43-107(40281)
सौहृदं च कृपां चैव प्राप्तकालं महात्मनाम् ।
दयां च ज्ञातिषु परां कथयांचक्रिरे नृपाः ॥ 6-43-108(40282)
साधुसाध्विति सर्वत्र निश्चेरुः स्तुतिसंहिताः।
वाचः पुण्याः कीर्तिमतां मनोहृदयहर्षणाः ॥ 6-43-109(40283)
म्लेच्छाश्चार्याश्च ये तत्र ददृशुः शुश्रुवुस्तथा ।
वृत्तं तत्पाण्डुपुत्राणां रुरुदुस्ते सगद्गदाः ॥ 6-43-110(40284)
ततो जघ्नुर्महाभेरीः शतशश्च सहस्रशः ।
शङ्खांश्च गोक्षीरनिभान्दध्मुर्हृष्टा मनस्विनः ॥ ॥ 6-43-111(40285)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि त्रिचत्वारिंशोऽध्यायः ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-43-8 पेश्यः काहलाः। क्रकचा जयमङ्गलाः। गोविषाणिकाः गवादिश्रृङ्गाणि ॥ 6-43-25 पुराकल्पे प्राचीनशास्त्रे ॥ 6-43-29 व्यक्तं नियतम्। भीष्मं भीष्मस्य। अन्तिकं समीपम् ॥ 6-43-36 विवक्षितं वक्तुमिष्टम् ॥ 6-43-50 तावत् संप्रति ॥ 6-43-53 आत्मनिःश्रेसं स्वहित साधनम् ॥ 6-43-65 अभिजानामि अनुजानामि ॥ 6-43-67 प्रायगतं मरणाय नियतम् । अचेतनं योगबलेन त्यक्तदेहम् । योधानां मध्ये कश्चिदिति शेषः ॥ 6-43-68 जह्यां त्यजेयम् ॥ 6-43-98 भवतः भवत्संबन्धी ॥ 6-43-100 तन्तुः संततिः । पिण्डः पितृयज्ञः । अन्ये सर्वे मरिष्यन्तीति भावः ॥ 6-43-107 गौरवं मान्यत्वम् ॥ 6-43-108 सौहृदं मैत्रीम् । कृपां स्नेहम्। दयां परदुःखप्रहाणेच्छाम् ॥ 6-43-109 कीर्तिमतां पाण्डवानां स्तुतिसंहिता वाच इति संबन्धः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|